________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
000000000000000000004
॥ मूलम् ॥ एवमावडजोणीसु । पाणिणो कम्मकिविसा ॥न निविजंति संसारे । सबढेसु व खत्तिया ॥ ५॥ व्याख्या-प्राणिनो जीवाः संसारे, एवममुना प्रकारेणावर्तयोनिषु न निर्विजंते नोद्विजंते नोद्विग्ना भवंति, आवर्तेन पुनः पुनः परिभ्रमणेन स्पृष्टा योनय आवर्तयोनयस्तेषु चतुरशीतिलक्षप्रकारेषु, कीदृशाः प्राणिनः? कर्मकिल्विषाः, कर्मभिः किल्वषा मलिना अधमा वा, केषु के इव नोद्विजंते? सर्वार्थेषु क्षत्रिया इव, सर्वे च तेऽर्थाश्च सर्वार्थास्तेषु धनकनकभूमिवनितागजाश्वादि| पदार्थेषु क्षत्रिया राजान इव, तथा प्राणिनोऽपीत्यर्थः.
॥मूलम् ॥-कम्मसंगे हि संमूढा । दुक्खिया बहुवेयणा ॥ अमाणुसासु जोणीसु । विणिहै हम्मति पाणिणो ॥६॥ व्याख्या-प्राणिनो जीवा अमानुषीषु योनिषु मनुष्यवर्जितयोनिषु · विण
हम्मंति' विशेषेण निहन्यते विशेषेण निपात्यंते, अर्थादेकेंद्रियद्वींद्रियत्रींद्रियचतुरिन्द्रियेषु वारंवारमुत्पद्यत इत्यर्थः, की शाःप्राणिनः ? कर्मसंगैः कर्मसंयोगःसंमूढाः संव्याप्ताः, पुनः कीदृशाः? दुःखिताः, पुनः कीदृशाः ? बहुवेदनाः. ॥६॥
860000000000000000000
॥१२९॥
For Private And Personal Use Only