________________
Shri Mahavir Jain Nadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीकं
॥१२७॥
0000000000000000000
मनुष्यत्वमपि दुःप्रापमिति. (८) जुगेत्ति' युगसमिलादृष्टांतस्तथाहि-केनचिद्देवेन युगं समुद्रस्य पूर्वांते मुक्तं, तच्छिद्रान्निष्कास्य समिला समुद्रस्य पश्चिमाते मुक्ता, सा समिला सागरसलिलेनेतस्ततः प्रेर्यमाणा कदाचिदैवयोगेन पुनस्तच्छिद्रं प्रविशेन्न पुनर्मनुष्यजन्म लभेतेति. (९) 'पर
माणुत्ति' केनचिद्देवेन कश्चित्स्तंभश्शूर्णीकृतः, तस्य परमाणवो नलिकायां भृताः, सा नलिका तेनैव Mदेवेन मेरुमारुह्य फूत्कृता, उड्डीताश्चेतस्ततस्तत्परमाणवः, तानेकत्र संमील्य पुनस्तत्स्तंभस्य करणं यथा दुष्करं, तथेदं मनुष्यत्वं भ्रष्टं सत्पुनरपि प्राप्तुं दुष्करमिति दश दृष्टांताः.
॥ मूलम् ॥–समावन्ना ण संसारे । नाणागोत्तासु जाइसु ॥ कम्मा णाणाविहा कटु । हा पुढो विसंभया पया ॥२॥ व्याख्या-संसारे समापन्नाः, अत्र णं शब्दालंकारे, प्राप्ताः प्रजा जंतु
समूहा विश्वभृतो भवंति, जगत्पूरका भवंति, किंकृत्वा ? नानाविधासु पृथग्जातिष्वेकेंद्रियादिषु नानाविधानि कर्माणि कृत्वा, कीदृशीषु जातिषु ? नानागोत्रासु नाना बहुप्रकारेण गोत्रं नाम यासां ता नानागोत्रास्तासु नानागोत्रासु, बहभिधानासु. ॥२॥
Best PEG466668 66
॥ १२७॥
For Private And Personal Use Only