________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥१२६॥
000000000000000000000
स्वपुत्रा राधावेधसाधनायोत्थापितास्तैर्यथाक्रमं बाणावली मुक्ता, परं नैकेनापि राधावेधः साधितः, बाणपात इतस्ततो बभूव, सर्वेऽप्यन्ये राजपुत्राः परस्परं दत्तताला हसिताः, इंद्रदत्तस्य राज्ञो महान् खेदो जातः, मंत्रिणोक्तं राजन् ! कथं खेदो विधीयते ? मत्पुत्रीजातस्त्वत्पुत्रो वर्तते, सोऽवश्यं राधावेधं साधयिष्यतीति प्रोच्य राज्ञः पुरः स पुत्र आनीतः, वहिकालिखितं साभिज्ञानं; तदिनवर्णा दर्शिताः, तेन पुत्रेण स्वपितरं राजानं प्रणम्य राधावेधस्थानेऽधस्तैलभृतकटाहिकासंक्रांतो_भ्रमच्चकारपुत्रिकामध्यस्थितकन्यादातिपुत्रिकानिवेशितदृष्टिरधोवदनेनोव॑बाहुनोवस्था पुत्तलिकैकेनैव बाणेन विद्धा, साधितो राधावेधः, कन्या च परिणीता, पितुः परमो हर्षों बभूव. २२ पुत्राणां महाविषादः समभूत्. अथ यथा राधावेधचक्रं दुर्भद्य, तथा मनुष्यत्वमपि दुःप्राप्यमिति. (७) 'चम्मेत्ति' कच्छपस्तदुदाहरणं यथा-एको द्रहः सहस्रयोजनप्रमाणः सर्वत्र शैवालव्याप्तः, क्वापि स्थाने एकं छिद्रं कच्छपग्रीवाप्रमाणं,एकेन कच्छपेन ग्रीवा प्रसारिता,दृष्टं सचंद्रनक्षत्रचक्र, दृष्ट्वा सस्व कुटुंबाकारणाय मध्ये प्रविष्टः, स्वकुटंबसहितमितस्ततो तच्छिद्रं गवेषयति,परं न पश्यति,यथा तस्य तच्छिद्रंदुःप्राप्यं, तथा
@
29999900
॥ १२६ ॥
For Private And Personal Use Only