________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटीक
॥७२९॥
ACCORPHILO
ख्या-पुनर्गाथायुग्मेन संबंधः. भो भव्या अनुत्तरां सर्वोत्कृष्टां धर्मधुरं धर्मरथस्य भारं धारयध्वं ? कथंभूतां धर्मधुरं ? सुखावहां सुखप्राप्तिहेतुभूतां. पुनः कीदृशां धुर्मधुरं ? निर्वाणगुणावहां, निर्वाणस्य गुणा निर्वाणगुणा मोक्षगुणाः, अनंतज्ञानदर्शनानंतसुखानंतायुरनंतवीर्यरूपास्तेषामावहा पूरका निर्वाणगुणावहा, तां निर्वाणगुणावहां. किं कृत्वा धर्मधुरं धारयध्वं ? धनं दुःखविवर्धनं विज्ञाय, च पुनममत्वं बंधमिव संसारस्य बंधनं विज्ञाय. कीदृशं धनं ममत्वं च ? महाभयावहं महाभयदायकं, चोराग्निनृपादिभ्यः कष्टप्रदं. पुनः किं कृत्वा ? च पुनर्मूगाया राड्याः पुत्रस्य मृगापुत्रस्योत्तम प्रधानं चरितं चरित्रं चारित्रवृत्तांतं, तथा तस्य मृगापुत्रस्य भाषितं, मातापितृभ्यां संसारस्यानित्यतोपदेशदानं निशम्य हृदि धृत्वा. कीदृशं मृगापुत्रस्य चरित्रं? तवप्पहाणं तपःप्रधानं, पुनः कीदृशं मृगापुत्रस्य चरित्रं? गइप्पहाणं गत्या प्रधानं, गतिमोक्षलक्षणा, तया प्रधानं श्रेष्टं, मोक्षगमनाह. पुनः कीदृशं । मृगापुत्रस्य चरित्रं? त्रिलोकविश्रुतं त्रिलोकप्रसिद्धं. कीदृशस्य मृगापुत्रस्य ? महाप्रभावस्य, रोगादोनामभावेन दुःकरप्रतिज्ञाप्रतिमारूपाभिग्रहाणां पालनेन महामहिमान्वितस्य. पुनः कीदृशस्य मृगा
As+OADNEPALI
॥७२९॥
For Private And Personal Use Only