________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ७११ ॥
www.kobatirth.org
कठोरमुखैः किं कुर्वनहं ? विलपन् विलापं कुर्वन्. ॥ ५९ ॥
॥ मूलम् ॥ - तहा किलंतो धावंतो । पत्तो वेयरणिं नई ॥ जलं पिहंति चिंतिंतो । खुरधाराहिवा इओ ॥ ६० ॥ व्याख्या - हे पितरौ ! पुनरहं तृष्णाक्रांत स्तृषाभिव्यातो घावन वेतरणीं प्राप्तः सन् जलं पिवामीति चिंतयन् क्षुरधाराभिर्व्यापादितः कोऽर्थः ? यावदहं तृषाकांतो मनसि पानीयं पिबामीति चिंतयामि, तावद्वेतरणीनद्या ऊर्मिभिः कल्लोलैर्हतो दुःखीकृतः, वेतरणीनद्या जलं हि क्षुरधाराप्रायं गलच्छेदकमस्तीति भावः ॥ ६० ॥
॥ मूलम् ॥ उण्हाभितत्तो संपत्तो । असिपत्तं महावणं ॥ असिपत्तेहिं पडतेहिं । छिन्नपुबो अनंतसो ॥ ६१ ॥ व्याख्या - हे पितरो पुनरहमुष्णाभितप्त आतापपीडितश्छायार्थी असिपत्रमहावनं प्राप्तः असिवत्खड्गवत्पत्रं येषां तेऽसिपत्राः खड्गपत्रवृक्षास्तेषां महावनमसिपत्रमहावनं गतः सन्नसिपत्रैः पतद्भिरनंतशोऽनेकवारं छिन्नपूर्वो द्विधा कृतः ॥ ६१ ॥
॥ मूलम् ॥ - मुग्गरेहिं मुसंढीहिं । सूलेहिं मूसलेहि य ॥ गयासंभग्गगत्तेहिं । पत्तं दुक्खम
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ७११ ॥