________________
www.kobatirth.org
Acharya Shri Kilosagarsur Gyarmande
उत्तरा
सटीक
|स्फाटितः पुरातनवस्त्रवद्विदारितः. पुनरहं तैर्वराहकुर्कुटैः स्फाटितो दंतैर्दष्ट्राभिश्च वृक्षवच्छिन्नश्च. पुनः कोदशोऽहं ? कूजन्नव्यक्तं शब्दं कुर्वन्. पुनः कोदृशोऽहं ? विस्फुरन्नितस्ततस्तडफडन्. ॥ ५५॥
॥ मूलम् ॥-असीहिं अयसिवन्नाहिं । भल्लीहिं पिट्टिसेहि य ॥ छिन्नो भिन्नो विभिन्नो य । उइन्नो पावकम्मुणा ॥ ५६ ॥ व्याख्या-हे पितरौ ! पुनरहं पापकर्मणोदीर्णः प्रेरितः सन्नरकेष्वसिभिः
खड्गैः, पुनर्भल्लीभिः कुंतैस्त्रिशूलैर्वा, पुनः पिट्टिशैः प्रहरणविशेषैश्छिन्नो द्विधा कृतः, भिन्नो विदारितः, &च पुनर्विभिन्नो विशेषेण सूक्ष्मखंडीकृतः, कथंभूतैरसिभिः? अतसीकुसुमवर्णैः श्यामवर्णरित्यर्थः ॥५६
॥ मूलम् ॥-अवसो लोहरहे जुत्तो । जलंते समिलाजुए ॥ चोईओ तोत्तजुत्तेहिं । रोज्झोवा |जह पाडिओ ॥ ५७ ॥ व्याख्या-हे पितरौ! पुनरहं नरके लोहरथेऽवशः परवशः सन् परमाधार्मिकदेवैज्वलत्यग्निना जाज्वल्यमाने समिलायुगे युक्तो योत्रितः. समिला युगरंध्रक्षेपणीयकीलिका. युगस्तु धूसरः. उभयोरपि वह्निना प्रदीप्तत्वं कथितं. तत्राग्निना ज्वलमाने रथेऽहं योत्रितस्तोत्रयोक्त्रैनोंदितः प्रेरितः. तोत्राणि प्राजनकानि पुराणकादीनि. योक्त्राणि नासाप्रोतबद्धरज्जुबंधनानि, तैः प्रेरितः.
I७०९॥
For Private And Personal Use Only