________________
Shri Mahavir Jain Aradhana Kend
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
उत्तरा
सटोक
॥७०७॥
वर्तते, उपरि च वृक्षशाखायामहं बद्धः, करपत्रैः क्रकचैश्चानंतशो बहुवारं छिन्नपूर्वो द्विधा कृतः.
यथा काष्टं वध्वा करपत्रैः क्रकचैश्छिद्यते, तथाहं छिन्नः. लघूनि काष्टविदारणोपकरणानि ककचानि, 2 बृहंति च तानि करपत्रकाण्युच्यते. कीदृशोऽहं ? रसन् विलपन प्रकृतिं कुर्वन्; पुनः कीदृशोऽहं ? | अबांधवः, न विद्यते बांधवो हितकारी यस्य सोऽबांधवः ॥ ५२॥
॥ मूलम् ॥-अइतिक्खकंटयाइन्ने । तुंगे सिंबलिपायवे ॥ खेवियं पासबद्धेणं । कढाकढाइ दुक्करं ॥ ५३॥ व्याख्या-हे पितरावतितीक्ष्णकंटकाकोणे तुंगे उच्चे शंबलपादपे कबाकद्वैः कर्षापकर्षणैः परमाधार्मिककृतैः क्षेपितं पूर्वोपार्जितं कर्मानुभूतं. मया यानि कर्माण्युपार्जितानि तानि भुक्तानीति शेषः. कीदृशेन मया? पाशबद्धेन रज्ज्वा सिंजितेन. इदमपि दुष्करं कष्टं भुक्तमिति शेषः.
॥ मूलम् ॥-महजंतेसु उच्छ्व । आरसंतो सुभेरवं ॥ पीलिओमि सकम्मेहिं । पावकम्मो अणंतसो ॥ ५४ ॥ व्याख्या-हे पितरौ ! पुनरहं पापकर्मा, पापं कर्म यस्य स पापकर्मा पापः. अनंतशो बहवारं स्वकर्मभिर्महायंत्रेषु पीडितोऽस्मि. क इव? ईक्षुरिव, यथेार्महायंत्रेषु पीड्यते. अहं
॥७०७॥
For Private And Personal Use Only