________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ १२३ ॥
399999009539999999999
www.kobatirth.org
वादो विहितः, वामनेन वीणाकलादिभिर्देवदत्ता जिता, पादयोर्निपत्यैवमूचे भो पुरुष ! स्वरूपं प्रकटय ? अनया कलया ज्ञायते त्वमीदृशो वामनरूपवान्नासि, मूलरूपं ते पृथग्भविष्यतीति तव रूपं प्रकटय ? वामनेन वेश्यावचनरंजितेन स्वरूपं प्रकटितं, सापि भृशं तद्रूपचमत्कृता प्रकाममागृह्य स्वगृहे तं स्वभोगासक्तं चकार, अतीवतत्प्रीतिपात्रं बभूव अन्यदा पूर्वं तस्या आसक्तवान् व्यवहारिपुत्रोऽचलनामा गृहे समायातः, अक्कयोक्तं वत्से ! इभ्यपुत्रं भज ? मुंचैनं निःस्वं मूलदेवं ? तयोक्तं | मूलदेवो गुणवानयमचलो निर्गुणः, अक्कयोक्तमुभयोः परीक्षा क्रियते, ताभ्यामुभयोः पार्श्वे ईक्षत्र आनायिताः, मूलदेवेन निस्त्वचः कर्पूरवासिताः सुसंस्कृता आनीताः, अचलेन शकटं भृत्वेक्षव आनीताः, तथाप्यक्कावचसेभ्यपुत्रेण पराभूतो मूलदेवो वेन्नातटं प्रस्थितः, अटव्यां गच्छतो मूलदेवस्योपवासत्रयं जातं, चतुर्थदिवसे कापि ग्रामे भिक्षायां राद्धा माषा लब्धाः, मूलदेवेन तद्भक्षणार्थं सरसि गच्छता कश्चिन्महातपस्वो दृष्टः, तदभिमुखं गत्वा निस्तारय मां ? विस्तारय पात्रं ? द्रव्यादिशुद्धानिमान् माषान् गृहाणेत्युक्त्वा ते माषास्तस्मै दत्ताः, तदा तत्साहससंतुष्टा देवी गगनमार्गेऽवदद्भोः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
99900309999098
सटीकं
॥ १२३ ॥