SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥१२२ ॥ 3000000000000000000000 | तदा तस्य राज्यं दीयते, त्वमप्येवं कुर्विति राज्ञोक्तं कुमारस्य, यथास्य कुमारस्यैतत्करणं दुष्करं, तथा मनुष्यत्वमपि दुर्लभं. (४) 'रयणत्ति' एकस्मिन्नगरे कस्यचिद्व्यवहारिणो नानारत्नानि, स लोभान्न | व्यापारयति. अन्यदा पितरि देशांतरगते पुत्रैः कोटिध्वजत्वार्थं दूरदेशांतरीयपुरुषाणां हस्ते तानि दत्तानि, जाताः पुत्राः कोटिध्वजाः, कियता कालेन पिता गृहमागतः, ज्ञातवान् रत्नविक्रीणनं, रोष विधाय पुत्रानेवमूचे मम रत्नानि पश्चादापयंतु, यथा तत्पश्चाद्वालनं दुष्करं, तथा मनुष्यत्वमपि दुर्लभं. (५) ' सुविणेत्ति ' पाटलिपुरात्कलाकुशलो मूलदेवो राजपुत्रो द्यूतव्यसनात्पित्रा पराभूतो निर्गतो गुटिकाकृतवामनरूप उज्जयिनीं गतः, तत्र तादृशा रूपेणैव तेन वीणाकला जनानां दर्शिता, विस्मिता २ जनाः, वीणाकलावार्ता सर्वत्र प्रता, श्रुता च देवदत्तया वेश्यया. ततस्तया तस्याकारणाय चेटी प्रहिता, तया चागत्यैवमुक्तं भो वामन ! त्वां मत्स्वामिन्याकारयति, तेनोक्तं-या विचित्रविटकोटिनिघृष्टा । मद्यमांसनिरतातिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा। तां भजति गणिकां न विशिष्टाः ॥१॥ वामनेनैवमुक्तेऽपि तया चेट्या विचित्रैः सामवचनैहमानीतः, देवदत्तया च तेन समं वीणा 1000000000000000000 ॥ १२२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy