________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥१२१॥
000000000000000000000
शिक्षितो यतार्थ प्रेरितः, स गृहीतसुवर्णटंककस्थालः पुराभ्यंतरे भ्रमन्नेवं वक्ति, अहं यदि जयामि तदा सुवर्णटंककमेकं गृह्णामि, मां यद्यन्यो जयति तदा तस्य सुवर्णटंकस्थालमिदं ददामीति श्रुत्वा बहवो जनास्तेन समं यूतक्रीडां कुर्वति, परं हारितेव जना आप्नुवंति, स तु सर्वत्र जयति. एवं पाशकयुक्तस्य तत्पुषरुस्य पराजयो दुर्लभस्तथा मनुष्यत्वप्राप्तिर्दुर्लभेति पाशकदृष्टांतः. (२) ___ 'धन्नेत्ति' भरतसत्कानि सर्वाण्यपि धान्यान्येकत्र संमील्य मध्ये सर्षपप्रस्थप्रक्षेपः केनचिद्देवेनाभिधीयते, तत्सर्वमेकीकृत्य कस्याश्चिदतिवृद्धाया दीयते, तस्या यथा सर्वधान्यानां प्रत्येकं पृथक्करणं दुष्करं, तथा मनुष्यत्वमपि दुर्लभं. (३) 'जूएत्ति' एकोराजा तस्याष्टोत्तरशतस्तंभालंकृता सभास्ति, स्तंभे | स्तंभे च १०८ कोणाः संति. एकदा तस्य राज्ञः पुत्रो राजानं मारयित्वा स्वयं भोक्तुमीहते, तस्याध्यवसायो मंत्रिणा ज्ञातः, कथितश्च राज्ञे, राज्ञापि पुत्रायोक्तं हे पुत्र योऽस्माकमनुक्रमं न सहते, स यूतं खेलयति, यदि जयति तदा तस्य राज्यं दीयते, यूतक्रीडनविधिरयं वर्तते, कुमारस्यैकवारं दायो भवति, राज्ञो यथेच्छया भवंति. एवमष्टोत्तरशतस्तंभानामेकैकं कोणमष्टोत्तरशतवारं जयति,
0000000008680986600
For Private And Personal Use Only