________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassarsuri Gyarmandie
उत्तरा
सटोकं
१२४॥
0000000000000000000004
| पथिक! मार्गय यथेच्छं पदद्वयेन ? ततो मूलदेवोऽवदत्-धन्नाणं खु नराणं । कुम्मासा हुंति साहुपा| रणए ॥गणिअंच देवदतं । रजसहस्सं च हत्थीणं ॥१॥ तया चोक्तं द्वयमपि तेसद्यः संभविष्यति, तस्यामेव रात्रौ देश्यकुट्यां मूलदेवेन सुप्तेन स्ववदनप्रविष्टश्चंद्रः स्वप्ने दृष्टः, तदानीमेव तत्रैव सुप्तेनैकेन कार्पटिकेन तादृश एव स्वप्नो दृष्टः, मूलदेवः स्रस्तरादुत्थितो यावत्स्वप्नं विचारयति, तावत्सोऽपि स्वस्रस्तरादुत्थाय स्वगुरोः पुरस्तं स्वप्नमाचख्यो, गुरुरपि त्वमद्य घृतगुडसहितमंडकं प्राप्स्यसीति बभाषे, मूलदेवस्तत उत्थाय नगरांतः स्वप्नपाठकगृहे गत्वा घनं विनय कृत्वा स्वप्नपाठकाय स्वप्नमाचल्यो, तेनोक्तं सप्तमदिवसे तव राज्यं भविष्यतीत्युक्त्वा स्वपुत्री तेन मुलदेवाय परिणायिता. अपुत्रस्तन्नगरस्वामी मृतः, पंचदिव्यैर्मूलदेवस्य राज्यं दत्तं, देवदत्तां च गणिकां तत्रानाय्य मूलदेवराजा स्वराज्ञी चकार. अन्यदा तत्र व्यापारार्थमागतोऽचलव्यवहारी, राज्ञा मूलदेवेनोपलक्षितः, शुल्कमिषेण भृशं पराभूतः, स्वतेजो मूलदेवेन दर्शितं, अचलः स्वापराध क्षमयामास, राज्ञीवचसा मूलदेवेन मुक्तः. अथ स कार्पटिकः स्वस्वप्नानुसारिस्वप्नदर्शिनं मूलदेवकुमारं राजानं जातं श्रुत्वा
0000000000000000000000
॥१२४ ॥
For Private And Personal Use Only