________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥७०४॥
॥ मूलम् ॥-सारीरमाणसा चेव । वेयणाओ अणंतसो ॥ मए सोढाओ भीमाओ । असई दुक्खभयाणि य॥४६॥व्याख्या-हे पितरौ ! मया शारीरमानस्यो वेदना अनंतशोऽनंतवारान् सोढा अनुभृताः. चैव पादपूरणे. च पुनरसकृद्वारंवारं दुःखानि भयानि च सोढानि. कीदृशा वेदनाः? भीमा भयानकाः. दुःखानां भयानां च भीमशब्दो विशेषणेन प्रतिपाद्यः. कीदृशानि दुःखानि भयानि च ? | भीमानि भयोत्पादकानि. दुःखानि च भयानि च दुःखभयानि. अथवा दुःखहेतूनि भयानि दुःखभयानि, राजविड्वराग्निचौरधाटीप्रमुखाणि, तानि वारंवारमनुभृतानीत्यर्थः ॥ ४६॥
॥ मूलम् ॥-जरामरणकंतारे । चाउरते भयागरे ॥ मए सोढाणि भीमानि । जम्माणि मरणाणि य ॥ ४७ ॥ व्याख्या-पुनर्मूगापुत्रो वक्ति, हे पितरौ! चातुरंते संसारे भीमानि भयदानि जन्मानि च पुनर्मरणानि मया सोढान्यनुभूतानि. चत्वारो देवमनुष्यतिर्यग्नरकरूपा भवा अंता अवयवा यस्य स चतुरंतः, चतुरंत एव चातुरंत इति व्युत्पत्तिः. अर्थात्संसारस्तस्मिंश्चातुरंते संसारे. कीदृशे चातुरंते? जरामरणकांतारे,जरामरणाभ्यामतिगहनतया कांतारं वनं जरामरणकांतारं, तस्मिन्
॥७०
For Private And Personal Use Only