________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥७०३॥
क
-%
॥ मूलम् ॥-भुंज माणुस्सए भोए। पंचलक्खणए तुमं ॥ भुत्तभोगी तओ जाया । पच्छा धम्मं चरिस्ससि ॥४४ ॥ व्याख्या-हे पुत्र! मानुष्यकान्, मनुष्यस्येमे मानुष्यकास्तान् मानुष्यकान मनुष्यसंबंधिनः पंचलक्षणान् पंचविधान् भोगांस्त्वं भुंक्ष्वाऽनुभव ? हे जात! हे पुत्र! ततः पश्चाद् भुक्तभोगीभूव धर्म यतिधर्म चरिष्यस्यंगीकरिष्यसि. इदानीं तव भोगानुभवसमयोऽस्तीति, न पुनभोगत्यागावसर इति भावः ॥ ४४ ॥
॥ मूलम् ॥ सोवि तम्हा पियरो। एवमेयं जहा फुडं ॥ इहलोयनिप्पिवासस्स । नत्थि किंचिवि दुक्करं ॥ ४५ ॥ व्याख्या-अथ मृगापुत्रो ब्रूते, हे पितरावेवमिति यथा भवद्भ्यां प्रोक्तं तत्तथैव. यथा प्रव्रज्याया दुष्करत्वं स्फुटं प्रकटं वर्तते तदसत्यं नास्ति. तथापीह लोके निष्पिपासस्य, पिपासायास्तृष्णाया निर्गतो निःपिपासस्तस्य निःपिपासस्य निःस्पृहस्य पुरुषस्य किंचिदपि दुष्करं नास्ति. निःस्पृहस्य तृणं जगदित्युक्तेः. यः स्पृहावान् भवति तस्य परिग्रहत्यागो दुष्कर एव. परं नि-15 रीहस्य साधुधर्मः सुकर एव. तेनाहं निःस्पृहोऽस्मि. मया सुखेन साधुधर्मः कर्तव्यः ॥४५॥
७०३॥
For Private And Personal Use Only