________________
Shri Mahavir Jain Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
उत्तरा
| सटीक
॥७०२॥
5555
करा, तथा तारुण्ये यौवने श्रमणत्वं चारित्रं कर्तुं दुष्करं. यौवनावस्थायां हींद्रियाणि दुर्दमानीत्यर्थः.
॥ मूलम् ॥ जहा दुक्खं भरेउं जे। होइ वायस्स कुत्थलो॥ तहा दुक्खं करेउं जे। कीवेण समणत्तणं ॥४१॥ व्याख्या-हे पुत्र! यथा वायोरिति वायुना भरितुं पूरितुं कुत्थलो वस्त्रमयं भाजनं | दुष्करं, तथा क्लीवेन हीनसत्वेन श्रामण्यं कर्तुं दुष्करं. ॥४१॥
॥ मूलम् ॥-जहा तुलाए तोलेउं । दुक्करं मंदरो गिरी ॥ तहा नियं निस्संकं । दुक्करं समण-| त्तणं ॥ ४२ ॥ व्याख्या-हे पुत्र! यथा मंदरो गिरिमेंरुपर्वतस्तुलया तोलितुं दुष्करस्तथा निभृतं निश्चलं निःशंकं शंकारहितं यथास्यात्तथा शरीरापेक्षारहितं श्रमणत्वं साधुत्वं शरीरेण धतुं दुष्करं.
॥ मूलम् ॥-जहा भुयाहि तरिडं। दुक्करं रयणायरो ॥ तहा अणुवसंतेणं । दुक्करं दमसागरो ॥ ४३ ॥ व्याख्या-हे पुत्र! यथा रत्नाकरः समुद्रो भुजाभ्यां तरितुं दुष्करस्तथाऽनुपशांतेन मनुष्येण दमसागरस्तरितुं दुष्करः. उपशांतो जितकषायः, न उपशांतोऽनुपशांतस्तेन सकषायेण पुरुषेण
V दम इंद्रियदमोऽर्थाच्चारित्रं, दम एव दुस्तरत्वात्सागर इव दमसागरस्तरितं दुःशक्य इत्यर्थः॥ ४३ ॥
७०२॥
For Private And Personal Use Only