________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
उत्तरा
सटोक
॥७०१॥
++C+CACANCACK
रित्रसमुद्रस्तरणीयः (कायवाङ्मनोनियंत्रणेनैव तत्तरणात्तस्य च दुःकरत्वात्.) ॥ ३७॥
॥ मूलम् ॥-वालुयाकवले चेव । निरस्साए उ संजमे ॥ असिधारागमणं चेव । दुक्करं चरिउं तवो ॥ ३८ ॥ व्याख्या-हे पुत्र! वालुकाकवलो यथा निःस्वादस्तथा संयमः. असिधारागमनमसिधारायां गमनं, खड्गधारायां चलनं यथा दुष्करं तथा तपश्चरितुं दुष्करं वर्तते. ॥ ३८॥
॥ मूलम् ॥-अहीवेगंतदिट्ठीए । चरित्ते पुत्त दुच्चरे ॥ जवा लोहमया चेव । चावेयवा सुदुकरं ॥ ३९ ॥ व्याख्या-हे पुत्र! साधुरहिरिवैकांतदृष्टिः, एकांतो निश्चयो यस्याः सैकांता, एकांता चासौ दृष्टिश्चैकांतदृष्टिः. यथा सर्प एकाग्रदृष्ट्या चलति, इतस्ततश्च न विलोकयति, तथा साधुमार्गे साधुश्चरेत्, मोक्षमार्गे दृष्टिं विधाय चरेत्. कीदृशे चारित्रे? दुश्चरे चरितुमशक्ये. यथा लोहमया | यवाश्चर्वितव्या दुष्करास्तथा चारित्रमपि चरितुं दुष्करं. ॥ ३९॥
॥ मूलम् ॥-जहा अग्गिसिहा दित्ता । पाउं होइ सुदुक्करं ॥ तह दुक्करं करेउं जे । तारुण्णे समणत्तणं ॥४०॥ व्याख्या-हे पुत्र! यथाग्निशिखा दीप्ता सती ज्वलंती पातुं पानं कर्तुं सुतरां दु
T॥७०१॥
For Private And Personal Use Only