________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा-1
सटोक
॥७००
नमणुपालिउं ॥३५॥ व्याख्या-हे पुत्र! त्वं सुखोचितोऽसि, हे पुत्र! पुनस्त्वं सुकुमालोऽसि, अथ चारित्रग्रहणाय समुद्यतोऽसि; परं त्वं श्रामण्यं साधुधर्ममनुपालयितुं प्रभुः समर्थो न भवसि.॥३५॥
॥ मुलम् ॥-जावज्जीवमविस्सामो। गुणाणं तुह महप्भरो ॥ गुरुओ लोहभारुव । जो पुत्ता होइ दुव्वहो ।। ३६ ॥ व्याख्या-हे पुत्र! यो गुणानां चारित्रस्य मूलोत्तरगुणानां महाभारः स लोहभार इव गुरुगरिष्टो दुर्वहो भवति. कीदृशो गुणानां महाभारः? यावजीवमविश्रामो विश्रामरहितः. अन्योऽपि गुरुभारो यदा वोढुं न शक्यते, तदा क्वचित्प्रदेशे विमुच्य विश्रामो गृह्यते, परमेवं चारित्रगुणभारः कदापि न मोचनीयो यावजीवं धारणीयोऽस्ति. ॥ ३६॥
॥ मूलम् ॥-आगासे गंगसोउव। पडिसोउव्व दुत्तरो॥बाहाहिं सागरो चेव । तरिअबो गुणोयही | ३७ व्याख्या-हे पुत्र! आकाशे गंगायाः श्रोतोवद्दुस्तरमिति योज्यं. यथा हिमाचलात्पतगंगाप्रवाहस्तरितुमशक्यस्तथा संयमो धारितुमशक्यः. प्रतीपजलप्रवाह इव दुस्तरो वाहुभ्यां सागरस्तरितव्यः, तथा गुणोदधिर्गुणानां ज्ञानदीनामुदधिर्गुणोदधिः, अथवा गुणा ज्ञानादयस्त एवोदधिर्गुणोदधिश्चा
॥७००॥
-
HEREtc
-
For Private And Personal Use Only