________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
॥६९८॥
RAHARASHTRA
संविधिर्घतगुडादेरुचितकालातिक्रमेण स्थापनं. ततः संनिधिश्चासौ संचयश्च संनिधिसंचयः, एव निश्चयेन वर्जितव्यः, सोऽपि सुतरां दुष्करः ॥ ३१ ॥
॥ मूलम् ॥-छहा तण्हा य सीउण्हे । दंसमसगवेयणा ॥ अक्कोसा दुक्खसिज्जा य । तणफासा | जल्लमेव य ॥ ३२ ॥ व्याख्या-पुनहें पुत्र! क्षुधा सहनीयेत्यध्याहारः. तृषा तृष्णा व सोढव्या, शी
तोष्णं सहनीयं, दंशमशकानां वेदना सहनीया, पुनराक्रोशा दुर्वचनानि, तत्सहनमपि दुष्करं. पुनः | दुःखशय्या उपाश्रयस्य दुःखं शय्यादुःखं तदपि सहनीयं. संस्तारके तृणस्पर्शदुःखं, पुनर्जल्लं मलपरी-18 पहोऽपि सोडव्यः साधुना. ॥ ३२॥
॥ मूलम् ॥-ताडणा तजणा चेव । वहबंधपरीसहा ॥ दुक्खं भिक्खायरिया । जायणा य अलाभया ॥ ३४ ॥ व्याख्या-पुनस्ताडना चपेटाटकरादिना हननं, पुनस्तर्जनमंगुल्यादिना निर्भर्ल्सनं भयोत्पादनं. पुनर्वधबंधपरिषहाः सहनीयाः. तत्र वधो यष्ट्यादिभिर्हननं, बंधनं रज्ज्वादिना
॥६९८॥ दमनं, वधश्च बंधश्च वधबंधौ, तयोः परिषहाः सोढव्याः. पुनर्भिक्षाचर्याया दुःखं, गृहस्थगृहे याचना
+%COCCAAAAAAOFECONCE
For Private And Personal Use Only