________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उत्तरा
Acharya Shri Kailassagarsuri Gyanmandie ॥ मूलम् ॥-विरई अबंभचेरस्स । कामभोगरसन्नुणा ॥ उग्गं महत्वयं बंभं । धारेयत्वं सुदु-| सटीक, करं ॥ २९ ॥ व्याख्या-हे पुत्र! अब्रह्मचर्यस्य मैथुनस्य विरतिः कर्तव्या, सापि दुष्करा. हे पुत्र! कामभोगरसज्ञेन पुरुषेणोग्रं घोरं बंभं ब्रह्मचर्य महाव्रतं धर्तव्यं, तदपि दुष्करं. लब्धभोगसुखावादस्य भोगेभ्यो निवृत्तिरत्यंतं दुष्करेत्यर्थः ॥ २९॥
॥ मूलम् ॥-धणधन्नपेसवग्गेसु । परिग्गहविवजणं ॥ सवारंभपरिच्चाओ। निम्ममत्तं सुदुक्करं ॥३०॥ व्याख्या-धनधान्यप्रेष्यवर्गेषु परिग्रहविवर्जनं कर्तव्यं, धनं गणिमादि, धान्यं गोधूमादि, प्रेष्यवों दासदास्यादिवर्गः. धनं च धान्यं च प्रेष्यवर्गश्च धनधान्यप्रेष्यवर्गास्तेषु मोहबुद्धेविशेषेण वर्जनं, एतदपि दुष्करं. पुनः सर्वारंभपरित्यागः कर्तव्यः, स चापि दुष्करः ॥ ३०॥
॥ मूलम् ॥-चउबिहेपि आहारे। राईभोयणवजणा ॥ सन्निहोसंचओ चेव । वजेया वा सुदुक्क ॥ ३१॥ व्याख्या-हे पुत्र! पुनः साधुध चतुर्विधे आहारे रात्रिभोजनस्यवर्जना कार्या.
N६९७॥ अशनपानखादिमस्खादिमानां चतुर्णामाहाराणामपि रात्री भोजनत्याग एव कर्तव्यः. च पुनः
For Private And Personal Use Only