________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं.
मता कर्तव्या. पुनर्यावजीवं प्राणातिपातविरतिर्दुष्करमिति दुष्करा. ॥ २६ ॥
॥मूलम् ॥-निच्चकालप्पमत्तेण । मुसावायविवजणं ॥ भासियत्वं हियं सच्चं । निच्चाउत्तेण का दुक्करं ॥ २७ ॥ व्याख्या-पुनर्नित्यकालं सर्वदा अप्रमादित्वेन मृषावादस्य विवर्जनं मृषावादविवर्जनं
कर्तव्यं. पुनर्हितं हितकारकं सत्यं वक्तव्यं. पुनर्नित्यायुक्तेन स्थातव्यं, तदपि दुष्करमस्ति, आयुक्तः क्रियासु सावधानत्वं, नित्यमायुक्तो नित्यायुक्तस्तेन स्थातव्यं. अत्र भावप्रधाननिर्देशो मंतव्यः. | नित्यमायुक्तत्वेन स्थातव्यं तदपि दुष्करमित्यर्थः ॥ २७ ।
॥ मूलम् ॥-दंतसोहणमाइस्स । अदत्तस्स विवजणं ॥ अणवजेसणिजस्स । गेण्हाणा अवि दुक्करा ॥ २८ ॥ व्याख्या-हे पुत्र ! पुनः साधुधर्मे दंतशोधनप्रमुखस्याप्यदत्तस्य वस्तुनोऽपि विवर्जनं. शलाकामात्रमपि वस्त्वदत्तं न ग्रहितव्यं. अनवद्यं च तदेषणीयं चाऽनवधेषणीयं, तस्यानवथैषणीयस्य पिंडादेर्ग्रहणमपि दुष्करं. अनवद्यं निर्दषणमचित्तं प्रासुकमेषणीयं द्विचत्वारिंशदोषरहितं पिंडं ग्रहितव्यं, तदपि दुष्करमित्यर्थः. ॥ २८ ॥
For Private And Personal Use Only