________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ६९५ ।।
www.kobatirth.org
असारं भांडं चाsपोज्झति अपोहति त्यजतीत्यर्थः ॥ २३ ॥
॥ मूलम् ॥ - एवं लोए पलितंमि । जराए मरणेण य ॥ अप्पाणं तारइस्सामि । तुज्झेहिं | अणुमन्नि ॥ २४ ॥ व्याख्या - एवममुनाऽनेन दृष्टांतेन लोके जरया मरणेन च प्रदीप्ते प्रज्ज्वलिते सत्यहमात्मानं तारयिष्यामि . कीदृशोऽहं ? युष्माभिरनुमतो भवद्भिर्दत्ताज्ञस्तस्मान्मह्यमाज्ञा दातव्या. अहं भवदाज्ञया आत्मन उद्धारं करिष्यामीति भावः ॥ २४ ॥
॥ मूलम् ॥ तं बिंति अम्मापियरो । सामन्नं पुत्त दुच्चरं ॥ गुणाणं तु सहस्साइं । धारयन्वाइ भिक्खुणो ॥ २५ ॥ व्याख्या-अथ मातापितरौ तं मृगापुत्रंप्रति ब्रूतः, हे पुत्र ! श्रामण्यं दुश्वरं, साधुधर्मो दुष्करोऽस्ति. हे पुत्र ! चारित्रस्योपकारकारकाणां गुणानां सहस्राणि भिक्षोर्धारयितव्यानि, मूलगुणाश्चोत्तरगुणाश्च भिक्षुणा धारणीयाः ॥ २५ ॥
॥ मूलम् ॥-समया सवभृएसु । सत्तुमित्तेसु वा जगे || पाणाइवायविरई । जावज्जीवाइ दुक्करं ॥ २६ ॥ व्याख्या–पुनर्हे पुत्र ! सर्वभूतेषु समता कर्तव्या, अथवा जगे इति जगति शत्रुमित्रेषु स
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ६९५ ॥