________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ६९४ ।।
www.kobatirth.org
| पहा विवज्जई ॥ २१ ॥ व्याख्या - हे पितरौ ! यः पुरुषो महांतमध्वानं दोघं मागं सपाथेयः शंबलसहितः सन् प्रव्रजति, स पुरुषः क्षुधातृष्णाभ्यां विवर्जितः क्षुधातृष्णाविवर्जितः सन् मार्ग गच्छन् सुखीभवति ॥ २१ ॥
I
॥ मूलम् ॥ - एवं धम्मंपि काऊणं । जो गच्छइ परं भवं ॥ गच्छंते से सुही होइ । अप्पकम्मे अवेयणे ॥ २२ ॥ व्याख्या - एवममुना प्रकारेणानेन शंबलसहित पुरुषदृष्टांतेन यो मनुष्यो धर्म कृत्वा परभवं परलोकं गच्छति, स धर्माराधकः पुरुषः सुखी भवति कीदृशः सः ? अल्पकर्मा अल्पानि कर्माणि यस्य सोऽल्पकर्मा लघुकर्मा पुनः कीदृशः सः ? अवेदनः, न विद्यते वेदना यस्य सोऽवेदनः अल्पवेदनो वेदनारहितो वा, अल्पपापकर्मा अल्पाऽसातावेदन इत्यर्थः ॥ २२ ॥
॥ मूलम् ॥ – जहा गेहे पलित्तंमि । तस्स गेहस्स जो पहू ॥ सारभंडाणि नीणेइ । असारं उववज्जइ ॥ २३ ॥ व्याख्या हे पितरौ ! यथा गृहेऽग्निना प्रदीप्ते प्रज्ज्वलिते सति तस्य गृहस्य यः प्रभुः स्वामी तदा सारभांडानि सारपदार्थानाजीविकाहेतून् गृहात् ' नीणेइ ' इति निष्कासयति,
For Private And Personal Use Only
C
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ६९४ ॥