________________
www. kobatirm.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं,
॥ ६९१ ॥
BHASHA
जीवस्य निवासो यस्मिंस्तदशाश्वतावासं. पुनरिदं शरीरं दुःखक्लेशानां भाजनं, दुःखानि जन्मजरामृत्युप्रमुखाणि, क्लेशा धनहानिस्वजनवियोगादयस्तेषां भाजनं स्थानं. अथवा दुःखहेतवो ये क्लेशा रोगास्तेषां भाजनं. ॥ १३ ॥
॥ मूलम् ।।-असासए सरीरंमि । रइं नेव लभामिहं ॥ पच्छा पुरा वच्चइच्चे । फेणबुब्बयसन्निभे ॥ १४ ॥ व्याख्या हे पितरावहमशाश्वते शरीरे रतिं न लभामि, अहं स्वास्थ्यं न प्राप्नोमि. पुनः कीदृशे शरोरे? पश्चाद्भोगभोगानंतरं (भुक्तभोगावस्थायां वार्धक्यादी) पुरा पूर्व भोगभोगाद
गेव ( अभुक्तभोगितायां बाल्यादौ) त्यक्तव्ये. पुनः कीदृशे शरीरे? फेनबुबुद्संनिभे पानीयप्रस्फोटकसदृशे. ॥ १४ ॥
॥ मूलम् ॥-माणुसत्ते असारंमि । वाहिरोगाण आलए ॥ जरामरणगच्छंमि । खगंपि न रमामिहं ॥ १५ ॥ व्याख्या-हे पितारावसारे मनुष्यत्वेऽहं क्षणमपि न रमामि, न हर्ष भजामि.13 कीदृशे मनुष्यत्वे? व्याधिरोगाणामालये, व्याधयः कुष्टशूलादयः, रोगा वातपित्तश्लेष्मज्वरादयः,
For Private And Personal Use Only