________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
उत्तरा
तानि प्राग्जन्मनि श्रुतानि, नरकेषु पुनस्तिर्यग्योनिषु दुःखं भुक्तमभूत्. ततोऽहं निर्विणकामोऽस्मि, AI निवृत्तविषयाभिलाषोऽस्मि. महार्णवात्संसारसमुद्रात् प्रव्रजिष्यामि निस्तरिष्यामि. यूयमतो मामनुजानीत? आज्ञा दत्त ? ॥ १०॥
॥मूलम् ॥-अम्माताय मए भोगा । भुत्ता विसफलोबमा ॥ पच्छा कडुयविवागा । अणुबंधदुहावहा ॥ ११ ॥ व्याख्या-हे पितरौ मया पूर्व भोगा भुक्ताः कीदृशा भोगाः? विषफलोपमाः, विषफलैरुपमीयते इति विषफलोपमाः. पूर्व भोगसमये मधुराः, परं पश्चात्कटुकविपाकाः, कटुको विपाको येषां ते कटुकविपाकाः, प्रांते दुःखदा इत्यर्थः. अथ पुनः कीदृशाः? अनुबंधदुःखावहा अ| नुबंधं निरंतरं दुःखस्य आवहा दायकाः, अविच्छिन्नदुःखदायिनः. .
॥ मूलम् ॥-इमं सरीरं अणिच्चं । असुई असुइसंभवं । असासयावासमिणं । दुक्खकेसाण भायणं ॥ १२ ॥ व्याख्या-हे पितराविमं शरीरमनित्यमशाश्वतं, अशुच्यपवित्रं च वर्तते. पुनरिदं शरीरमशुचिसंभवमशुचिशुक्ररेतःसंभूतं. पुनरिदं शरीरमशाश्वतावासं, अशाश्वतोऽनित्य आवासो
**
*
॥६९०॥
For Private And Personal Use Only