________________
Shri Mahavir Jain Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥६८६॥
विद्यते येषां ते दमिनस्तेषामीश्वरो दमीश्वरः, उपशमवतां साधूनामैश्वर्यधारी. अत्र कुमारावस्थायामेव दमीश्वर इति विशेषणमुक्तं, तत्तु भाविनि भृतोपचारात्. अथवात्र द्रव्यनिक्षेपो ज्ञेयः, द्रव्यजिना जिनजीवा इति वचनात्.
॥ मूलम् ॥—नंदणे सो उ पासाए । कीलए सह इथिहिं ॥ देवो दोगुंदगो चेव निच्च मुइयमाणसो॥३॥ मणिरयणकुहिमतले । पासायालोयणहिओ ॥ आलोएइ नगरस्त । चउक्कतियचचरे ॥४॥ व्याख्या-उभयाभ्यां गाथाभ्यां संबंधः. स मृगापुत्रः कुमारो नंदने विशिष्टवास्तुशास्त्रोक्तसम्यग्लक्षणोपेते प्रासादे राजमंदिरे स्त्रीभिः सह क्रीडते. क इव ? दोगुंदकदेव इव, त्रायस्त्रिंशत्सुर इव. इंद्रस्य पूज्यस्थानीया देवास्त्रायस्त्रिंशका दोगुंदका अप्युच्यते. पुनः कीदृशः सः? नित्यं मुदितमानसो निरंतरहृष्टचित्तः, एतादृशो मृगापुत्रः प्रासादालोकने स्थितः सन् नगरस्य चतुष्कत्रिकचत्वरानालोकते. प्रासादस्यालोकने गवाक्षे स्थितो नगरस्य चतुष्कादिस्थितानि कौतूहलानि पश्यति. कीदृशे प्रासादालोकने? ' मणिरयणकुहिमतले 'मणयश्च रत्नानि च तैः कुहिमं जटितं तलं यस्य
T॥६८६॥
For Private And Personal Use Only