________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोकं
॥६८७॥
तन्मणिरत्नकुहिमतलं, तस्मिन्. ॥३॥४॥
॥ मूलम् ॥-अह तत्थ अइच्छंतं । पासइ समणसंजयं ॥ तवनियमसंजमधरं । सीलट्ठ गुणआगरं ॥५॥ व्याख्या-अथानंतरं स मृगापुत्रः कुमारस्तत्र तस्मिंश्चतुष्कत्रिकचत्वरादो' अइच्छंतं 'अतिक्रामंतं विचरंतं श्रमणं पश्यति. कीदृशं श्रमणं? संयतं जीवयतनां कुर्वतं, संयतमिति विशेपणेन वीतरागदेवमार्गानुसारिणं, न तु शाक्यादिमुनि. पुनः कीदृशं? तपोनियमसंयमधरं, तपो बाह्याभ्यंतरभेदेन द्वादशविधं, नियमो द्रव्यक्षेत्रकालभावेनाभिग्रहग्रहणं. संयमः सप्तदशविधः, तपश्च नियमश्च संयमश्च तपोनियमसंयमास्तान् धरतीति तपोनियमसंयमधरस्तं. पुनः कीदृशं ? शीलाढ्यं शोलैरष्टादशसहस्रब्रह्मचर्यभेदैराढथं पूर्ण. पुनः कीदृशं ? गुणाकरं गुणानां ज्ञानदर्शनचारित्रगुणानामाकरं खनिसदृशं.
॥ मूलम् ॥ तं देहई मियापुत्ते । दिट्टीए अणिमिस्सिए ॥ कहिं मन्नेरिसं रुवं । दिपुवं मए पुरा ॥६॥ व्याख्या-मृगापुत्रस्तं मुनिमनिमेषया दृष्ट्या देहई पश्यति. दृष्ट्वा चैवं विचार
*॥६८७॥
For Private And Personal Use Only