________________
Sin Manavir Jain Aradhana
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥ ६८५॥
माहिसी ॥१॥ व्याख्या-सुग्रीवे नाम्नि नगरे बलभद्र इति नामा राजाभूत. कीडशे सुग्रीवे नग- सटीक रे? रम्ये रमणीये, पुनः कीदृशे? काननोद्यानशोभिते, तत्र काननं बृहदवृक्षाणामाम्रराजादनादितरूणां वनं, उद्यानं नानाविधपादपलतादीनां वनं, अथवा क्रीडायोग्यं वनमुद्यानमुच्यते. ततः काननं चोद्यानं च काननोद्याने, ताभ्यां शोभितं काननोद्यानशोभितं, तस्मिन्. तस्य बलभद्रभूपस्य मृगा नाम्न्यग्रमहिष्यभूत, महिषी पट्टराज्ञी अग्रा प्रधाना सा चासौ महिषी चाग्रमहिषी. ॥१॥
॥मूलम् ॥-तेसिं पुत्ते बलसिरी । मियापुत्तेति विस्सुए ॥ अम्मापिऊण दइए । जुवराया दमोसरे ॥२॥ व्याख्या-'तेसिं पुत्ते ' इति तयोर्बलभद्रमृगाराइयोः पुत्रो बलश्रीनामासीत. बलश्रीति मातापितृभ्यां कृतनामा. स बलश्रीर्विश्रुतो लोकप्रसिद्धो मृगापुत्र इत्यभूत्. मृगाया महाराझ्याः पुत्रो मृगापुत्रः, लोकास्तं मृगापुत्रमित्यूचुरित्यर्थः कीदृशो मृगापुत्रः? ' अम्मापिऊण दइए' इति मातापित्रोदयितो वल्लभः. पुनः कीदृशः? युवराजः, युवा चासो राजा च युवराजः कुमार-18Insaan पदधारकः, पितरि जीवति सति राज्ययोग्यः कुमारो युवराज उच्यते. पुनः कीदृशः? दमीश्वरः, दमो18
ॐ15-rrror
For Private And Personal Use Only