________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वनस्थं वर्तते, अतस्त्वमेतादृशशरीरयौवनगुणाननुभव ? पश्चात्प्रव्रजेः. ततः स महाबल एवमवादीत् ,
सटीकं. | हे मातरिदं मनुष्यशरीरं दुःखायतनं, विविधव्याधिग्रस्तमस्थिसंबद्धं, स्नसाजालसंबद्धं, अशोचनि-3 ॥६७८॥४
धानमनवस्थिताकारं विनश्वरमेव भविष्यतीतीच्छाम्यहं त्वरितं प्रवजितुं. ततः सा प्रभावत्येवमवादीत् पुत्र! इमास्तव सर्वकलाकोमलस्वभावा मार्दवार्जवक्षमाविनयगुणयुक्ता हावभावविचक्षणाः सुविशुद्धशोलाः कुलशालिन्यः प्रगल्भवयस्का मनोऽनुकूलभावानुरक्ता अष्टौ तव भार्याः संति, ताभिः समं भोगान् भुंश्व ? पश्चाद्वयःपरिपाके परिव्रजेः. ततः स महाबल एवमवादीत्-इमे खलु मानु-18 ष्यकाः कामभोगा उच्चारप्रश्रवणश्लेष्मवातपित्ताश्रयाः शुक्रशोणितसमुद्भवा अल्पक्रीडिता बहुपसर्गाः कटुकविपाकदुःखानुबंधिनः सिद्धिविघातकारिणः संतीति सद्य एवाहं प्रवजिष्यामि. पुनर्मातापितरावेवमूचतुः-पुत्र! परंपरपर्यायाइहुहिरण्यसुवर्णविपुलधनधान्यानि स्वयमास्वादमानोऽन्येषां दानाचानुग्रहाण? मनुष्यलोकसत्कारसन्मानान्यनुग्रहाण? पश्चात्परिव्रजे. ततः स महाबल एवमवादी
॥६७८॥ त-इदं सर्व हिरण्यादिकं वस्त्वग्निग्राह्य, राजग्राह्य, दायादग्राह्य, भृत्यग्राह्यमधुवं विद्युद्वच्चंचलं, नास्य
For Private And Personal Use Only