________________
www.kobatirth.org
Acharya Shri Kasagarsur Gyarmandie
उत्तरा
सटीक
६७९
भोगः केनापि ग्रहीतुं शक्यः, इति शीघ्रमेवाहं प्रव्रजिष्यामि. ततो मातापितरौ विषयप्रवर्तकवाक्यरेनं गृहे रक्षितुं न शक्नुतः, अथ संयमोद्वेगकरैरेवमूचतुः-पुत्र! अयं निग्रंथमार्गो दुरनुचरोऽस्ति, अत्र लोहमया यवाश्चर्वणीयाः संति, गंगाप्रतिश्रोतसि गंतव्यमस्ति, समुद्रो भुजाभ्यां तरणीयोऽस्ति, दीप्ताग्निशिखायां प्रवेष्टव्यमस्ति, खड्गधारायां संचरणीयमस्ति, पुत्र ! निग्रंथानामाधाकर्मिकं बीजादिभोजनं च न कर्तव्यमस्ति. पुत्र! त्वं तु सुकुमालोऽसि, सुखोचितोऽसि, न त्वं क्षुधातृषाशीतोष्ण्यादिपरीषहोपसर्गान् सोढुं समर्थोऽसि. पुन मिशयनं, केशलोचनमस्नानं, ब्रह्मचर्य, भिक्षाचर्या च विधातुं न शक्नोऽसि. ततः पुत्र! त्वं तावद् गृहे तिष्ट यावद्वयं जीवामः. ततः स महाबल एवमवादीत्-अयं निग्रंथमार्गः क्लीवानां कातराणां चेहलोकप्रतिबद्धानां परलोकपराङ्मुखानां दुरनुचरोऽस्ति, न पुनर्वीरस्य निश्चितमतेः पुरुषस्य किमप्यत्र दुष्करणीयमस्तीति मामनुजानीत प्रत्रज्याग्रहणार्थ. अथ मातृपितृभ्यां तं गृहे रक्षयितुमशक्ताभ्यामवांछयैव प्रव्रज्यानुमतिस्तस्य दत्ता. ततो बलराजा कौटुंबिकपुरुषैर्हस्तिनागपुरं बाह्याभ्यंतरे संमार्जितोपलिप्तंकारयति,तं महाबलं कुमारं च मातापितरो सिं
॥६७९॥
For Private And Personal Use Only