________________
Shri Mahavir Jain Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
॥६७४॥
सप्ततिवर्षशतसहस्राणि सर्वायुरतिवाह्य मुक्तिं गतः. सप्ततिधनूंषि चानयोर्देहमानं. इति विजयराजकथा.
॥ मूलम् ॥ तहेवुग्गं तवं किच्चा। अवखित्तेण चेयसा ॥ महब्बलो राय रिसी। आदाय सिरसा सिरिं ॥५१॥ व्याख्या-तथैव महाबलनामा राजर्षिस्तृतीयेभवे मोक्षं जगामेति शेषः किं कृत्वा ? अव्याक्षिप्तेन चेतसा स्थिरेण चित्तेन, उग्रं प्रधानं तपः कृत्वा. पुनः किं कृत्वा? शिरसा मस्तकेन श्रियं चारित्रलक्ष्मीमादाय गृहीत्वा. ॥ ५१ ॥ अत्र महाबलराज्ञः कथा-अत्रैव भरतक्षेत्रे हस्तिनागपुरं नगरमस्ति, तत्र बलनामा राजा, तस्य प्रभावतीनाम्नी राज्ञी, अन्यदा सा राज्ञी प्रवरशयनीयोपगतेपन्निद्रां गच्छंती शशांकशंखधवलं सिंहं स्वप्ने दृष्ट्वा प्रतिबुद्धा. ततः सा तुष्टा यत्र बलस्य राज्ञः शयनीयं तत्रोपागच्छति, तं स्वप्नं च बलस्य राज्ञः कथयति. ततः स बलो राजा तं स्वप्नं श्रुत्वा हृष्टस्तुष्ट एवमवादीत्, हे देवि! त्वया कल्याणकृत्स्वप्नो दृष्टः, अर्थलाभो भोगलाभो राज्यलाभश्च भविष्यंति. एवं खलु तव नवमासेषु सार्धसप्तदिनान्यधिकेषु गतेषु कुलप्रदीपः कुलतिलकः सर्वलक्षणसंपूणों दारको भविष्यतीति. ततः सा प्रभावत्येतदर्थ श्रुत्वा हृष्टा तुष्टा बलस्य राज्ञस्तद्वचनं
CAPESC
॥६७४॥
For Private And Personal Use Only