________________
San Mahavir Jain Aradhana Kenda
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
॥६७५॥
स्वीकरोति. राजानुज्ञया च स्वशयनीये समागच्छति. तत्प्रभृति च सा सुखेन गर्भमुदहति. प्रशस्तदोहदा प्रतिपूर्णदोहदा सा पूर्णेषु मासेषु सुकुमालपाणिपादं सर्वलक्षणोपेतं देवकुमारोपमं दारकं प्रसूतवती. ततः प्रभावत्या देव्याः प्रतिचारिका बलं राजानं विजयजयाभ्यां पुत्रजन्मना च वर्धापयंति. ततोबलराजैतमर्थं श्रुत्वा दृष्टस्तुष्टो धाराहतकदंबपुष्पमिव समुच्छ्वसितरोमकूपस्तासामंगप्रतिचारिकाणां मुकुटवर्ज सर्वं स्वशरीरालंकारं ददौ. मस्तकस्नपनादिकं प्रीतिदानं च यथेच्छं विती| र्णवान्. ततः स बलो राजा कौटुंबिकपुरुषानाकारयति. आगतांश्च तानेवमवादीत्, भो देवानुप्रियाः! क्षिप्रमेव हस्तिनागपुरे नगरे चारकशोधनं मानोन्मानप्रवर्धनं कुरुत? वर्धापनं च घोषयत? एवं राजाज्ञया ते तथैव कृतवंतः, प्राप्ते च द्वादशे दिवसे तस्य बालकस्य महाबल इति नाम चक्रतुः. ततो महाबलः पंचधात्रीपरिवृतो ववृधे. गृहीतकलाकलापश्च यौवनमनुप्राप्तोऽसदृशरूपलावण्यगुणो. पेतानामष्टानां राजवरकन्यानामेकस्मिन्नेव दिवसे पाणिग्रहणमकरोत्. ततस्तस्य महाबलकुमारस्य मातापितरावतिशयेन हर्षेण महदष्टप्रासादोपशोभितं वासभवनं कारयतः. एतादृशं च प्रीतिदानं
CAMP4.
CO-O-OCALCO-CA
॥६७५॥
For Private And Personal Use Only