________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
सटीक
॥ ६७२॥
मनालोच्य कालं कृत्वाऽसुरकुमारत्वेनोत्पन्नः. एकपल्योपमस्थितिरस्यासीत्. महाविदेहे क्षेत्रे चायं सेत्स्यतीत्युदायनकथा.
॥मूलम् ॥ तहेव कासीराया। सेऊ सच्चपरिक्कमो ॥ कामभोए परिच्चज । पहणे कम्ममहावणं ॥ १९॥ व्याख्या-हे मुने! तथैव तेनैव प्रकारेण पूर्वोक्तनृपवत्काशोदेशपतिनंदननामा राजा सप्तमबलदेवः कर्मरूपं महावनं प्राहनदुन्मूलयामासेत्यर्थः किं कृत्वा ? भोगान् परित्यज्य. कोदृशो नंदनः? श्रेयःसत्यपराक्रमः, श्रेयः कल्याणकारकं यत् सत्यं संयमः श्रेयःसत्यं, तत्र पराक्रमो यस्य स श्रेयःसत्यपराक्रमः. मोक्षदायकचारित्रधर्मे विहितवीर्य इत्यर्थः ॥ ४९ ॥ अत्र काशीराजष्टांतः-वाणारस्यां नगर्यामग्निशिखो राजा, तस्य जयंत्यभिधाना देवी, तस्याः कुक्षिसमुद्भूतःसप्तमबलदेवो नंदनो नाम, तस्यानुजो भ्राता शेषवतीराज्ञीसुतो दत्ताख्यो वासुदेवः, स च पित्रा प्रदत्तराज्यः साधितभरताधों नंदनानुगतो राज्यश्रियं स्फीतामनुबभृव. कालेन षट्पंचाशद्वर्षसहस्राण्यायुरतिवाह्य मृत्वा दत्तः पंचमनरकपृथिव्यामुत्पन्नः. नंदनोऽपि च गृहीतश्रामण्यः समुत्पादितकेवलज्ञानः पंचष
६७२॥
For Private And Personal Use Only