________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥६७१।।
तेन दध्योषधं परिहर? तद्वाक्यादधि परिहृतं, रोगो वर्धितुमारब्धः, पुनस्तेन दध्यौषधं कर्तुमारब्धं. पुनरपि तदंतर्विषं देवतयापहृतं. एवं वारत्रयं जातं. अन्यदा देवता प्रमत्ता जाता, तैश्च विष दत्तं. तत उदायनराजर्षिर्बहुनि वर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनया केवलज्ञानमुत्पाद्य सिद्धः. तस्य शय्यातरः कुंभकारस्तदानीं क्वचिद्मामांतरे कार्यार्थ गतोऽभूत. कुपितया च देवतया वीतभयस्योपरि पांशुवृष्टिर्मुक्ता, सकलमपि पुरमाच्छादितं, अद्यापि तथैवास्ति. शय्यातरः कुंभकारस्तु शनिपल्ल्यां मुक्तः. उदायनराजपुत्रस्याभीचिकुमारस्य तदायं वृत्तांतो जातः. यदोदायनः केशिकुमारं राज्येऽभिषिच्य प्रवजितस्तदास्यायमध्यवसायः समुत्पन्नः. अहमुदायनस्य ज्येष्टपुत्रः प्रभावत्यात्मजः, तादृशमपि मां मुक्त्वा केशिकुमारं राज्येऽभिषिच्योदायनः प्रवजितः, इत्यंतर्मानसिकेन दुःखेन पराभूतोऽसौ वीतभयपत्तनं मुक्त्वा चंपायां कोणिकराजानमुपसंपद्य विपुलभोगसमन्वितोऽभूत्. स चाभीचिकुमारः श्रमणोपासकोऽधिगतजीवाजीवोऽप्युदायनराज्ञि समनुगतवैरोऽभूत्. अभीचिकुमारो बहुनि वर्षाणि श्रमणोपासकपर्यायं प्रतिपाल्यार्धमासिक्या संलेखनयोदायनवैरस्थान
a-COME
॥६७१॥
For Private And Personal Use Only