________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailassagersuri Gyarmandie
उत्तराहाच तस्यैतादृशोऽभिप्रायः समुत्पन्नः, धन्यानि तानि ग्रामाकरनगराणि, यत्र श्रमणो भगवान् श्रीम- | सटोकं
हावीरो विहरति. राजग्रहेश्वरप्रभृतयो ये धन्यास्ते श्रमणस्य भगवतः श्रीमहावीरस्यांतिके केवलिप्रज्ञप्त ॥ ६६९ ॥
धर्म शृण्वंति, पंचाणुवतिकं सप्तशिक्षाप्रतिकं द्वादशविधं श्रावकधर्म च प्रतिपयंते, तथा मुंडीभृत्वाजगारादनगारितां ब्रजति. ततो यदि श्रमणो भगवान् श्रीमहावीरः पूर्व्यानुपूर्व्या चरन् यदोहाग-| च्छेत, ततोऽहमपि भगवतोंतिके प्रव्रजामि. उदायनस्यायमध्यवसायो भगवता ज्ञातः. प्रातश्चंपातः प्रतिनिष्क्रम्य वीतभयपत्तनस्य मृगवनोद्याने भगवान् समवस्मृतः. तत्र पर्षन्मिलिता, उदायनोऽपि तत्रायातो भगवदंतिके धर्म श्रुत्वा हृष्टश्चैवमवादोत्. स्वामिन् ! भवदंतिकेऽहं प्रवजिष्यामि. परं राज्यं कस्मैचिद्ददामीत्युक्त्वा भगवंतं वंदित्वा स स्वगृहाभिमुखं चलितः. भगवतापि प्रतिबंधं मा कारित्युक्तं. ततो हस्तिरत्नमारुह्योदायनराजा स्वगृहे समायातः. तत उदायनस्यैतादृशोऽध्यवसायः समु| त्पन्नो यद्यहं स्वपुत्रमभीचिकुमारं राज्ये स्थापयित्वा प्रव्रजामि, तदायं राज्ये जनपदे मानुष्यकेषु !
॥६६९॥ कामभोगेषु मूर्छितोऽनाद्यनंतं संसारकांतारं भ्रमिष्यति, ततः श्रेयः खलु मम निजकं भगिनीजातं
For Private And Personal Use Only