________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
कदेवत्वेन मृत्वोत्पद्यते इत्यर्थः. आभियोगिकदेवा हि देवानामाज्ञाकारिणः किंकरप्राया दासप्रायाश्च.
॥ मूलम् ||-नाणस्स केवलोणं । धम्मायरिया य संघसाहणं ॥ माई अवन्नवाई । किविसियं १२९१॥
भावणं कुणई ॥ ६९ ॥ व्याख्या-स पुरुषः किल्विषीं भावनां कुरुते, किल्विषदेवयोनित्वदायिकां भावनामुत्पादयति. स कः? यः पुरुषो ज्ञानस्य श्रुतज्ञानस्य तथा श्रुतज्ञानवतोऽवर्णवादो भवति. तथा केवलिनः केवलज्ञानिनः केवलदर्शनस्य वाऽवर्णवादी भवति. तथा यः पुरुषो धर्माचार्यस्य | धर्मदायकस्याऽवर्णवादो भवति, अयं जातिहीनः, अयं मुखः, अयं कषायीत्याद्याशातनाकृद्भवति. तथा संघसाधूनां, संघश्च साधवश्च संघसाधवस्तेषां संघसाधूनामवर्णवादो भवति तथा पुनयों
मायी, आत्मनः सतोऽवगुणानाच्छादयति, परेषामसतोऽवगुणान् वक्ति, सतो गुणान्न वक्ति, एतादृशो 5जीवो मृत्वा किल्विषिदेवत्वेनोत्पद्यते इत्यर्थः ॥ ६९ ॥
॥मूलम् ।।-अणुबद्धरोसपसरो । तह य निमित्तंमि होइ पडिसेवी ॥ एएहिं कारणेहिं ।। 8 आसुरियं भावणं कुणइ ॥ ७० ॥ व्याख्या-एताभ्यां कारणाभ्यां पुरुष आसुरीं भावनां करोति,
COACARAL
॥१२९१॥
For Private And Personal Use Only