________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उसरा
॥१२९०॥
ASHMIRE
भावणं कुणई ॥ ६७ ॥ व्याख्या-नरः कंदपकौकुच्ये कुर्वन, तथा शीलस्वभावहास्यविकथादिभिः
सटीक परमन्यं विस्मापयन् कंदर्पभावनां करोति. कंदर्पश्च कौकुच्यं च कंदर्पकोकुच्ये, ते कंदर्पकौकुच्ये. तत्र कंदर्पोऽटट्टहास्यादिपूर्व वक्रत्वेन जल्पनं, कौकुच्यं कायदुचेष्टितं वाग्दुचेष्टितं च, एते उभे कुर्वन् जीवः कंदर्पभावनां जनयति. तथा शीलखभावस्य हास्यं शोलस्वभावहास्यं, शीलस्वभावहास्यं च विकथाश्च शोलखभावहास्यविकथाः, ताभिरन्यं साश्चर्यं कुर्वन् कंदर्पभावनां जनयति. ॥ ६॥
॥ मूलम् ॥-मंताजोगं काउं । भृइकम्मं च जे पउंति ॥ सायरस्स इढिहेउं । अभिओगं 5 भावणं कुणइ ॥ ६८ ॥ व्याख्या-यः पुरुषः सातरसाचहेतवे मंत्रायोगं कृत्वा, मंत्रं च आयोगश्च मंत्रायोगं, मंत्रं ओंकारादिस्वाहांतं, आयोग औषधीमीलनं, अथवा मंत्राणामायोगः साधनं मंत्रायोगस्तं कृत्वा, तथा भूत्या भश्मना मृत्तिकया सूत्रेण वा यत्कर्म तद्भुतिकर्म, मनुष्याणां तिरश्चां गृहाणां वा रक्षाद्यर्थं कौतुकादिकरणं भूतिकर्म, एतानि सुखार्थ सरसाहारार्थ वस्त्रादिप्राप्त्यर्थं यः ॥१२९० । साधुः कुर्यात, स आभियोगिकी भावनां करोति, आभियोगिकों भावनां चोत्पाद्य स आभियोगि
For Private And Personal Use Only