________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२८९॥
www.kobatirth.org
हेतुना ॥ ६५ ॥
!! मूलम् ॥ - बहुआगमविणाणा । समाहिउप्पायगा य गुणगाही ॥ एएण कारणेणं । अरिहा आलोयणं सोउं ॥ ६६ ॥ व्याख्या - एतैः कारणैर्जना आलोचनां श्रोतुमर्हा भवंति तानि कानि कारणानि ? बह्वागमविज्ञानत्वसमाभ्युत्पादनत्वगुणग्राहित्वादीन्यालोचनाश्रवणार्हत्वकारणानि ज्ञेयानि. गुणगुणिनोरभेदविवक्षयेमान्येव कारणान्यालोचनाश्रवणार्हाणां विशेषणत्वेन प्रतिपादयति ते नरा आलोचनां श्रोतुमर्हा भवंति ते इति के ? ये बह्नागमविज्ञानाः, बहुः सूत्रार्थाभ्यां विस्तारो विपुल आगमो बह्वागमस्तस्य विशिष्टं ज्ञानं येषां ते बह्नागमविज्ञाना भवंति च पुनयें मुनयः समा|ध्युत्पादकाः समाधिं देशकालयोग्यैर्मधुरवचनैरन्यस्य स्वास्थ्यमुत्पादयंतीति समाध्युत्पादका भवंति, च पुनर्ये गुणग्राहिणो भवेयुः, परदूषणोद्घाटका न स्युस्ते आलोचनाश्रवणार्हा भवेयुरिति भावः ||| ६६ ॥ अथ कंदर्पादिभावनानां यत्परिहार्यत्वमुक्तं, अतस्ताभ्यामेव स्वरूपमाह -
॥ मूलम् ॥ कंदप्पकुक्कुयाई । तह सीलसहावहासविगहाहिं ॥ विम्हाविंतोय परं । कंदष्पं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥१२८९॥