________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटार्क
me
|ते हुंति परित्तसंसारी ॥ ६४॥ व्याख्या-ते जीवाः परित्तसंसारिणो भवंति, प्राकृतत्वाहहुवचनस्थाने | एकवचनं. परीतः खंडितः संसारः परीतसंसारः, परीतसंसारो विद्यते येषां ते परीतसंसारिण इति | छिन्नसंसारिणः स्युरित्यर्थः. ते इति के ? ये जीवा जिनवचनेऽर्हद्वाक्येऽनुरक्ताः संतो भावेन जिनवचनं कुर्वति, इत्यनेन मनोवाकायैर्जिनधर्ममाराधयंति. पुनः कीदृशास्ते ? अमला मिथ्यामलरहिताः, पुनः कोदृशाः? असंक्लिष्टा मोहमत्सरादिक्लेशरहिताः, एतादृशा जीवाः संसारपारं कृत्वा मोक्षं ब्रजंतोत्यर्थः.
॥मूलम् ॥-बालमरणाणि बहुसो । अकाममरणाणि चेव बहुयाणि ॥ मरिहंति ते वराया। जिणवयणं जे न याणंति ।। ६५॥ व्याख्या-ये मनुष्या जिनवचनं न जानंति, ज्ञानक्रियाभ्यां मोक्ष इत्यर्हद्वाक्यं न श्रद्दधति ते मनुष्या बहशो वारंवारं वराका दयाभाजनं संतो 'बालमरणानि' इति प्राकृतत्वातृतीयाबहवचनस्थाने द्वितीयाबहवचनं, बालमरणैरुदबंधनविषभक्षणादिमरणैस्तथाऽकाममरणैश्चच्छां विना क्षुधातृषाशीतातपादिमरणैर्मरिष्यंति. तस्माद्भावेन जिनवचनं श्रद्धेयं, भावस्त्वालोचनया स्यात, आलोचना वालोचनार्हाणां देया, आलोचनायोग्यास्त्वेतैर्हेतुभिः स्युस्तान्
CERRORECASEARC
॥१२८८॥
For Private And Personal Use Only