________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२८१ ॥
www.kobatirth.org
त्वात्तत्र वासिनां देवानां स्वस्थानाच्च्युत्वाऽन्यत्र संसारे निगोदे समुत्पन्नानां, पश्चात्पुनः स्वस्थाने आगच्छतामुत्कृष्टं चेत्कालांतरं भवेत्, तदानंतकालांतरं भवेत् जघन्यं चेदंतरं भवेत्तदा वर्षपृथक्त्वं नववर्षाणि यावद्भवतीत्यर्थः ॥ ४९ ॥
॥ मूलम् ॥ -- संखेज्जसागरुक्कोसं । वासपुहुत्तं जहन्नयं ॥ अणुत्तराण य देवाणं । अंतरं तु वियाहियं ॥५०॥ व्याख्या - अनुत्तराणां देवानां च्यवनं भूत्वा पुनश्चेत्तत्रैवोत्पत्तिः स्यात्तदा कियदंतरं |भवेत्तदाह- उत्कृष्टं तु संख्येयसागरोपमाण्यंतरं व्याख्यातं जघन्यं तु वर्षपृथक्त्वं, नववर्षाणि यावत्. ॥ मूलम् ॥ एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ | सहस्सो ॥ ५१ ॥ व्याख्या -- एतेषां देवानां चतुर्निकायानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भवति, अनेके भेदा भवति ॥ ५१ ॥
॥ मूलम् ॥ -- संसारत्था य सिद्धा य । इइ जीवा वियाहिया ॥ रूविणो चेवरूवी य । अजीवा दुविहावि य ॥ ५२ ॥ व्याख्या -- अथ निगमयितुमाह-- संसारस्थाश्च जीवाः सिद्धाश्च जीवा इत्य
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥१२८१ ॥