________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा-1
सटीक
॥११७॥
000000000000000000000
लात्वा चाणिक्यो नष्टः, नंदपुरुषा अश्वारूढास्तं विलोकयति. एते त्वागताः, अहं तु सबालः पादचारी, अश्वारूढाणामेतेषां पुरः क्व यास्यामीति ध्यात्वा सरस्तीरस्थितं रजकं दृष्ट्वा चाणिक्यः प्राह भो रजक ! मारणाय नंदभवाः समायांति, तद्वचः श्रुत्वा रजको नष्टः, चाणिक्यः स्वयं रजको जातः. चंद्रगुप्तस्तु सरसि प्रवेशितः, एको नंदाश्ववारस्तत्रायातः, तेन पृष्टं भो रजक! चंद्रगुप्तः क्व गतः? | रजकः प्राह अस्मिन् सरसि प्रविष्टः, अश्ववारेण खघोटकस्तस्यार्पितः, खड्गमपि तस्यार्पितं. स्वयं || तु सरःप्रवेशाय यावत्सजो भवति, तावता तेनैव खड्गेन स चाणिक्येन द्विधा कृतः, पश्चात्सरसो निष्कासितश्चाणिक्येन चंद्रगुप्तः, अश्वमधिरोहितः, पथि गच्छता चाणिक्येन चंद्रगुप्तः पृष्टो भो | यस्यां वेलायां त्वं मया श्ववारस्य दर्शितस्तदा तव मनसि किमभूत्? चंद्रगुप्तेनोक्तं मयैवं ज्ञातं मम हितायैवं भवताहं दर्शितः. चाणिक्येन ज्ञातं योग्योऽयमेव, पश्चाच्चंद्रगुप्तः क्षुधातों जातः, ततश्चाणिक्येन क्वापि स्थाने सद्यो भुक्तस्य बटुकस्य जठरं द्विधाकृत्य दधिकूरं गृहीतं, भोजितश्चंद्रगुप्तः. ततो ग्रामे ग्रामे भिक्षां कुर्वश्चाणिक्यो भ्रमति. एकदा कस्मिंश्चिद् ग्रामे चाणिक्य एकस्या वृद्धाया गृहे
000000000000000000000
For Private And Personal Use Only