________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
site chia sẻ với các
पित्रादिभिहागतस्य चाणिक्यस्योक्तं, चाणिक्येनोक्तमहं बुध्ध्या दोहदमस्याः पूरयिष्यामि, यद्यस्याः पुत्रमष्टवार्षिकं मे ददत? तैस्तथेति प्रतिपन्नं, चाणिक्येन सासच्छिद्रमंडपेशायिता, तन्मुखाभिमुखोच्चैस्तरप्रदेशे शर्करामिश्रदुग्धभृतस्थालप्रयोगो विहितः, तहिंदवस्तस्या मुखे पतिताः, ततस्तद्दोहदपूर्तिर्जाता, कालक्रमेण पुत्रो जातस्तस्य चंद्रगुप्त इति नाम दत्तं, यावच्चंद्रगुप्तस्तत्र वर्धते, तावच्चाणिक्योऽपि देशांतरे धातुर्वादादिकं शिक्षयित्वा पुनस्तत्रागतः, स चंद्रगुप्तो दारकैः समं राजनीत्या क्रीडां कुर्वन् । दृष्टः, तत्र समागत्य स बालश्चाणिक्येन याचितः, बालकेनोक्तं मां गृहाण ? चाणिक्येनोक्तं गोस्वामी
त्वां ताडयिष्यति, तेनोक्तं वीरभोग्या वसुंधरा, चाणिक्येन ज्ञातमयं महानुदारचरित इति ज्ञात्वा R| कस्यचित्प्रत्यासन्नपुरुषस्य पृष्टमयं कस्य सुतः? तेन मातुर्दोहदपूरकं चाणिक्यमुपलक्ष्य तव पुत्रोऽय| मित्युक्तं, चाणिक्य उवाच हे बाल! त्वं चल मया समं? त्वामहं राजानं करोमि, चलितश्चाणिक्येन समं बालः, परदेशशिक्षितधातुर्वादद्रव्यबलेन लोको घनो मेलितः, गत्वा पाटलीपुरं रुद्धं, नंदो बहिनिर्गत्य तेन समं युद्धं चकार, भग्नश्चाणिक्यः, मेलितो लोकः सर्वोऽपीतस्ततो जगाम, चंद्रगुप्तं
900000000000000000000
H॥११६॥
For Private And Personal Use Only