________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥१२६९॥
www.kobatirth.org
लोकास्तानुपगच्छंतोत्युत्पत्तिविषयतया प्राप्नुवंतीति कल्पोपगा द्वादशदेवलोकस्थाः कल्पोपगाः, च पुनस्तथैव कल्पातीताः, कल्पानतीता इति कल्पातीताः, नवग्रैवेयकपंचानुत्तरविमानस्थाः एवं वैमानिकाद्विप्रकारा ज्ञातव्याः ॥ ११ ॥ अथ कल्पोपगतानां नामान्याह -
॥ मूलम् ॥ - कप्पोवगा बारसहा । सोहम्मीसाणगा तहा ॥ सणकुमारमाहिंदा । बंभोगा य लांगा ॥ १२ ॥ महासुक्का सहस्सारा । आणया पाणया तहा ॥ आरणा अच्चुया चेव । इइ कप्पोवगा सुरा ॥ १३ ॥ युग्मं ॥ व्याख्या – कल्पोपगा द्वादशधाः सुधर्मानामेंद्रस्य सभाऽस्मिन्नस्तीति सोधर्मः प्रथमकल्पः एवमीशानो द्वितीयकल्पः सौधर्मश्चेशानश्च सौधर्मेशानौ, तो गच्छंति प्राप्नुवंतीति सौधर्मेशानगाः तथा पुनः सनत्कुमारदेवलोके भवाः सनत्कुमाराः. महेंद्रे भवा माहेंद्रा:. सनत्कुमाराश्च महेंद्राश्च सनत्कुमारमाहेंद्राः पुनर्ब्राह्मलोका ब्रह्मलोके भवाः च पुनलतनामानं कल्पं गच्छतीति प्राप्नुवंतीति लांतगाः ॥ १२ ॥ महाशुक्रे भवा महाशुक्राः सहस्रारे भवाः सहस्त्राराः आनते भवा आनताः तथा प्राणते भवाः प्राणताः. अरुणे भवा आरुणाश्च. अच्युते भवा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥१२६९ ॥