________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
| सटाक
॥१२६६॥
कालस्यांतरमुत्कृष्टमनंतकालं, जघन्यकमंतर्मुहत कालांतरं ज्ञेयं. ॥ ४ ॥
॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ सहस्ससो॥ ५॥ व्याख्या-संमूर्छिमगर्भजमनुष्याणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादे| शतश्चापि सहस्रशो विधानानि बहवो भेदा भवंति. ॥ ५॥ अथ देवानाह
॥ मूलम् ॥-देवा चउबिहा वुत्ता । तं मे कित्तयओ सुण ॥ भोमिजवाणमंतर-जोइसवेमाणिया तहा ॥ ६॥ व्याख्या-देवाश्चतुर्विधा उक्ताः. तान भेदान् कीर्तयतो से मम त्वं शृणु ? | | भौमेयका व्यंतरा ज्योतिष्कास्तथा वैमानिकाः. भूमो भवा भोमेयका भवनवासिनो देवाः, रत्नप्र. | भायाः पृथ्व्या अशीतिसहस्रोत्तरयोजनलक्षपिंडाया उपर्येकं योजनसहस्रमवगाह्याधश्चैकं योजनसहस्रं मुक्त्वा मध्येऽष्टसप्तत्युत्तरयोजनलक्षे भवनवासिनां चमरेंद्रादिदेवानां भवनानि संति १. 'वाणमंतरत्ति' आपत्वाद्विविधान्यंतराणि निवासस्थानानि गिरिकंदरविवरादीनि येषां ते व्यंतराः २, ज्योतयंतीति ज्योतींषि विमानानि, तन्निवासिनो देवा ज्योतिष्काः ३. विशेषेण मानयंत्युप जति सुकृ
ONKANCHAR
॥१२६६॥
For Private And Personal Use Only