________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥१२६३॥
*AC+91-94%ACCIASCH
। मूलम् ॥-पन्नरस तीसइविहा । भेया अठ्ठावीसई ॥ संखा उ कमसो तेसिं । इइ एसा 5 वियाहिया ।। ९९ : व्याख्या-इत्यमुना प्रकारेणैतेषां पूर्वोक्तानां कर्मभूम्यकर्मभूम्यंतरद्वीपानां संख्या क्रमशोऽनुक्रमेण व्याख्याता. सा का संख्येत्युच्यते--विधशब्दस्योभयत्र संबंधो ज्ञेयः. पंचदशविधाः | कर्मभूमिजाः, भरतैरवतमहाविदेहानां प्रत्येकं पंचपंचसंख्याकत्वात् पंचदशसंख्यात्वं भवति. त्रिंशद्विधा अकर्मभौमाः, अत्र हैमवतहरिवर्षरम्यकरण्यवतदेवकुरूत्तरकुरुरूपाणां पण्णामप्यकर्मभूमोनां है| प्रत्येक पंचसंख्यागुणितानां त्रिंशत्संख्यात्वं संभवति. इह च क्रमश इत्युक्तेऽपि गणनावसरे क्रमभंगो विहितः, पूर्वमकर्मभूमिसंख्यां विहाय कर्मभूमिसंख्या प्रतिपादिता, तत्तु कर्ममृभिजानां मनुष्याणां मुक्तिसाधकत्वेन प्राधान्यख्यापनात्पूर्वकथनं न दोषायेति. तथांतरद्वीपानामष्टाविंशतिभेदाः, ते चांतरद्वीपाः क्षुल्लहिमवति पर्वते पूर्वस्यां दिश्यपरस्यां दिशि च जंबूद्वीपवेदिकांतात्परतः प्रत्येकं द्वे द्वे दंष्ट्र विदिगभिमुखे विनिर्गते स्तः. तद्यथा-पूर्वस्यामेकेशान्यभिमुखी दंष्ट्रा, द्वितीयाग्नेय्यभिमुखी. पश्चिमायामेका नैऋत्यभिमुखी, द्वितीया वायव्यभिमुखो. एवं चतसृषु विदिश्वभिमुखोषु दंष्ट्रासु प्रत्येकं
ॐॐॐॐॐview-
॥१२६३॥
For Private And Personal Use Only