________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२५६॥
5+%
www.kobatirth.org
कायस्थितिमाह
॥ मूलम् ॥ पुनकोडीपुहुत्तं तु । उक्कोसेण वियाहिया || कार्यठिई जलयराणं । अंतोमुहुत्तं | जहन्नया ॥ ७८ ॥ व्याख्या - जलचराणां कार्यस्थितिरुत्कृष्टतः पूर्वकोटिपृथक्त्वं व्याख्याता. यदा जलचरजीवो मृत्वा पुनः पुनर्जलचरयोनावेवोत्पद्यते, तदा पूर्वकोटिपृथक्त्वं यावदुत्पद्यते. पृथक्त्वं द्वाभ्यामारभ्य नवांकं यावत्पृथक्त्वमिति सिद्धांतां कसंज्ञास्ति. द्वाभ्यां पूर्वकोटिभ्यामारभ्य यावन्नवकोटिं यावज्जलचरो जीवो मृत्वा मृत्वा जलचरयोनावुत्पद्यते इत्यर्थः जघन्यतस्त्वंतर्मुहूर्तमेव काय स्थितिoर्व्याख्याता. अथ कालांतरमाह -
॥ मूलम् ॥ अनंतकालमुक्कोसं । अंतोमुहुतं जहन्नयं ॥ विजढम्मि सए काए । जलयराणं तु अंतरं ॥ ७९ ॥ व्याख्या - जलचराणां स्वकीये काये त्यक्ते सत्यन्यत्रोत्पद्य पुनः स्वकाये उत्पद्यते, तदा कियत्कालांतरं भवति । तदुच्यते - उत्कृष्टतोऽनंतं कालांतरं भवति, यतो हि चेजलचरो निगोदत्वेनोत्पद्यते, तदा निगोदस्यानंतकालस्य स्थितिरस्ति, जघन्यतस्त्वंतर्मुहूर्तमेव कालांतरं ज्ञेयं ॥ ७९ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१२५६ ॥