________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥१२५५ ॥
www.kobatirth.org
पंचसु भेदेषु बहूनां भेदानामंतर्भावः यतो हि यावंतः स्थलजीवास्तावंत एव जलजीवा इत्युक्तेः ॥७४॥ ॥ मूलम् ॥ - - लोए गदेसे ते सबे । न सवत्थ वियाहिया ॥ एतो कालविभागं तु । तेसिं वुच्छं चउहिं ॥ ७५ ॥ व्याख्या - ते सर्वे जलचरा जीवा लोकैकदेशे व्याख्याताः, जलस्थानेष्वेव, न तु सर्वत्र, इतोऽनंतरं तेषां जलचरजीवानां तु कालविभागं चतुर्विधं वक्ष्ये ॥ ७५ ॥ ॥ मूलम् ॥ संतई पप्पणाईया । अपज्जवसियाविय ॥ ठि पडुच्च साइया । सपज्जबसियाविय ॥ ७६ ॥ व्याख्या - ते जलचरजीवाः संततिं प्राप्य प्रवाहमार्गमाश्रित्याऽनादयोऽपर्यवसिताश्च वर्तन्ते स्थितिं प्रतीत्य भवस्थितिं कायस्थितिं चाश्रित्य सादयः सपर्यवसिताश्च संतीति भावः
|| मूलम् |--इक्का य पुवकोडी । उक्कोसेण वियाहिया ॥ आउटिई जलयराणं । अंतोमुहुत्तं | जहन्निया ॥ ७७ ॥ व्याख्या - जलचराणां मत्स्यादीनां जीवानामुत्कृष्टेनायुः स्थितिरेका पूर्वकोटी व्याख्याता. पूर्वस्य तु परिमाणमेतत्-सप्ततिकोटिलक्षवर्षाणि षट्पंचाशत्सहस्रकोटिवर्षाणि, एतैर्वर्वैः पूर्वं भवति जघन्यिकायुः स्थितिश्चैतेषामंतर्मुहूर्तमेव व्याख्याता ॥ ७७ ॥ अथ जलचराणां
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥१२५५॥