________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
सटीक
॥१२५४॥
गप्भवतिया तहा ॥ ७२ ॥ व्याख्या-पंचेंद्रियास्तिर्यंचो द्विविधा व्याख्याताः, ते के ? संमूर्छिमास्तियंचस्तथा गर्भव्युत्क्रांतिकास्तिर्यंचश्च. तत्र संमूर्छाऽतिशयमूढभावस्तेन निवृत्ता निष्पन्नाः संमूछिमाः, संमूर्छिमाश्च ते तिर्यंचश्च संमृर्छिमतिर्यंचो मनःपर्याप्तिरहिताः सदा संमूर्छिता इव तिष्टंति. गर्भव्युत्क्रांतिका गर्भजा मनःपर्याप्तिसहिताः ॥ ७२ ॥
॥ मूलम् ॥-दुविहा ते भवे तिविहा । जलयरा थलयरा तहा ॥ खहयराय बोधवा। तेसिं भेए सुणेह मे ॥ ७३ ॥ व्याख्या-ते द्विविधास्संमूर्छिमा गर्भजाश्च तिर्यंचः पुनस्त्रिविधा बोधव्याः. तत् त्रैविध्यं यथा जलचराः स्थलचरास्तथा खचराः संति. एते त्रयोऽपि द्विविधाः, गर्भजाः संमूर्छिमाश्च ज्ञेयाः. तेषां भेदान् मे कथयतो यूयं शृणुत? ॥ ७३ ॥ अथ जलचरभेदानाह
॥ मूलम् ॥--मच्छा य कच्छभायावि । गाहाय मगरा तहा ॥ सिसुमारा य बोधवा । पंचहा जलयराहिया ॥७४ ॥ व्याख्या--एते जलचराः पंचधा आख्याताः. एते के ? मत्स्या मीनाः, ८ ॥१२५४॥ कच्छपाः कूर्माश्चापि, ग्राहास्तंतुकजोवाः, मकरा महामत्स्याः, शिशुमारा अपि मत्स्यविशेषाः. एतेषु
PECIPECARROTECICIAL
For Private And Personal Use Only