________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥११४॥
DE METE it stt
बंधिसमस्तगृहेषु भोजनं गृहीत्वा पुनश्चक्रिणो गृहे भोजनं कर्तुमायाति किं ? कदाचिदिव्यानुभावादायात्यपि, परं मनुष्यावताराद्धृष्टः पुनर्मनुष्यावतारे नायातुं शकोतीति. मनुष्यभवदुर्लभतायां चोल्लगदृष्टांतः प्रथमः. पाशकदृष्टांतो यथा
गोल्लदेशे चणकग्रामोऽस्ति, तत्र चणकब्राह्मणः श्राद्धः, एकदा तस्य गृहे साधवः स्थिताः, तदानीं सदंष्ट्रस्तस्य पुत्रो जातः, दार्शता साधूनां,साधुभिरुक्तं सदंष्ट्रत्वेनासौ राजा भविष्यति. पित्रा विमृष्टमसौ राजा भूत्वा नरकं गमिष्यतीति भीत्या तस्य दंष्ट्रा घर्षिता, पुनस्तादृशो गुरुणां दर्शितः, 6 तैरुक्तमेकपुरुषांतरितो राजा भविष्यतीति. तस्य बालस्य चाणिक्य इति नाम दत्तं. अथातो वर्धमानश्चतुर्दश विद्यास्थानानि पठित्वा कालांतरेण परिणीतः. अन्यदा चाणिक्यभार्या भ्रातृविवाहे गता, तत्रान्या अपि सद्रव्यपतिकास्तद्भगिन्यो बह्वयः समायाताः, ताश्च मातृपितृभ्रातृभिर्बहुमानिताः, इयं च पेक्षितप्राया खिन्नैवमचिंतयन्मम पत्युनिर्धनत्वेनैते पित्रादयोऽपि मां न मन्यंते, खिन्ना सती सा पश्चादायाता, चाणिक्येन तस्याः खेदस्वरूपं पृष्टं, पितृगृहे सर्वासां भगिनीनां मानं स्वापमानं
10000000000000000000
॥ ११४॥
For Private And Personal Use Only