________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥११३॥
000000000000000000000
पृष्टप्रेषितंसुभटवृंदं दृष्ट्वा वरधनुः पृथग्गतः, कुमारस्त्वेक एव भ्रमन् केनचिद्विप्रेण दृष्टः, तेन सहाटवीमुत्तीर्णः, पृथग्वजंतं विप्रंप्राह कुमारः,भो! यदामम राज्यप्राप्तिः स्यात्तदा त्वयागंतव्यमिति.अथ कुमारो महाराजा जातः, चक्रवर्तिपदवों प्राप्तः, तदानोमागतःस ब्राह्मणः, उपानध्वजप्रयोगेण मिलितः, चक्रवतिनोपलक्षितः,कुशलं पृष्ठं,प्रोक्तं च मनोऽभीष्टं मार्गय ? स प्राह ब्राह्मणी पृष्ट्वा मार्गयिष्यामि, गतस्तस्याः समीपं,कथितवानेवं चक्रवर्ती मम तुष्टोऽस्ति, किंमार्गयामि ? तया विमृष्टं-प्रवर्धमानः पुरुषस्त्रयाणामुपघातकः ॥पूर्वोपार्जितमित्राणां । दारणामथ वेश्मनां ॥१॥इति विमृश्योक्तं किं संतापकारिणा बहुपरिग्रहेण ! प्रार्थय ? भरतक्षेत्र प्रतिगृहं भोजनं दीनारयुगलं च ? ततो विप्र आगत्य तथैव चक्रिणं प्रार्थयामास. चक्री हसित्वोवाच भो किमनया विडंबनया ? देशग्रामभांडारादि प्रार्थय ? | स तदेव प्रार्थयति, नान्यत्किमपीति. चक्रिणा विचारितं-जो जत्तिअस्स अत्यस्स।भायणं तस्स तत्तीअं होइ ॥ वुठेवि दोणमेहे । न डुंगरे पाणियं ठाइ ॥१॥ इति विचिंत्य प्रतिपन्नं तच्चक्रिणा, प्रथमदिने स्वगृहे सकुटुंबस्य तस्य भोजनं कारितं दीनारयुगलं च दत्त. एवं स ब्राह्मणो भरतक्षेत्रसं
100000000000000000
For Private And Personal Use Only