________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥११२॥
000000000000000000000
जा रयणे य सुमिणचक्के अ॥ चम्मयुगे परमाणू । दस दिलुता मणुअलंभे ॥१॥ दशदृष्टांतवन्मनुष्यत्वं 18 दुर्लभमुक्तं तत्र चोल्लगदृष्टांतो यथा
चोल्लगं परिपाटीभोजनं, तदर्थं कथा-कांपिल्यवगरे ब्रह्मराजा, चुलनी भार्या, तयोः पुत्रो ब्रह्मदत्तः. एकदा मृतः पिता, ब्रह्मपुत्रो बाल इति कृत्वा मित्रद्वयप्रहितो दीर्घपृष्टनामा राजा तद्राज्य रक्षति,सचुलन्यामासक्तो जातः, ब्रह्मदत्तेन तयोरनाचारो ज्ञातः, शूलाप्रोतपिष्टमयकुर्कुटकुर्कुट्यादिसंबंधफलदर्शनेन ताभ्यां स्वानाचारभीताभ्यां कन्या ब्रह्मदत्तस्य परिणायिता, जतुगृहं च कारितं, तावता धनुमंत्रिणा तयोः कपटं ज्ञातं, जतुगृहात्सुरंगा खानिता, सुरंगाद्वारेऽश्वद्वयं स्थापितं, स्वपुत्रस्य वरधनुनान्नस्तत्स्वरूपं ज्ञापितं, सुरंगामार्गश्च दर्शितः. ब्रह्मदत्तस्य वरधनुरनुचरः कृतः. अन्यदा मातृप्रेरितो ब्रह्मदत्तः कन्यासहितोजतुगृहे सुप्तः, वरधनुःप्रत्यासन्न एव सुप्तः, मध्यरात्री मात्रा ज्वालितं गृहं, उत्थितो ब्रह्मदत्तस्तस्य च वरधनुनासुरंगामागोंदर्शितः.ततो निर्गत्य वरधनुमित्रेण सह ब्रह्मदत्तोऽश्वद्वयमधिरुह्य दूरदेशेगतः, अत्यंतपथश्रमादश्वद्वयं मृतं पादचारेण मित्रेण सह ब्रह्मदत्तः पृथिव्यां भ्रमति. एकदादीर्घ
DGO000000GGO000000000€
॥११२॥
For Private And Personal Use Only