________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥१२३९॥
GUC
www.kobatirth.org
तामसंख्यकालमुत्कृष्टा स्थितिर्व्याख्याता, जघन्यिका स्थितिरंतर्मुहूर्त भवति वायुकायाच्च्युत्वा पुनर्वायुकाये एवोत्पद्यते, तदोत्कृष्टाऽसंख्येयकालं, जघन्यतश्चाप्यंतर्मुहूर्त स्थितिर्व्याख्यातेत्यर्थः ॥२४॥
॥ मूलम् ॥ अनंतकालमुकोसं । अंतोमुहुतं जहन्नयं ॥ विजढम्मि सए काए । वाउजोवाणमंतरं ॥ २५ ॥ व्याख्या - अथ कालस्यांतरमाह - वायुजीवानां स्वकीये काये त्यक्ते सत्युत्कृष्टमनंतकालं, जघन्यमंतर्मुहूर्तमंतरं भवति एतावता वायुकायस्थो जीवो वायुकायाच्च्युत्वाऽपरस्मिन् काये उत्पद्य पुनर्वायुका उत्पद्यते, तदा कियत्कालस्यांतरं भवति ? तदोत्कृष्टतोऽनंतकालस्यांतरं भवति, जघन्यतश्चांतर्मुहूर्तमंतरं भवति ॥ २५ ॥
॥ मूलम् ॥ - एएसिं वन्नओ चेव । गंधओ रसफासओ । संठाणादेसओ वावि । विहाणाइ सहस्सो ॥ २६ ॥ व्याख्या- एतेषामुत्कलिकादिवायूनां वायुकायजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवतीत्यर्थः ॥ २६ ॥ एवं तेजोवा|युत्रसानुक्त्वोदारत्रसानाह -
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
||॥१२३९ ॥